Sunday 13 September 2020

Feminism is a thrust area in Post Modernism. Swagatika Mishra has reviewed Feminism in my Creative Sanskrit Story-compositions in her research paper which is published in the online journal titled Prachi-prajna. It is being shared here with thanks to the reviewer.

प्राची प्रज्ञा (ISSN   2348 – 8417) The Peer Reviewed Refereed E-Journal in Sanskrit, VI / June, 2018


 बनमालि-बिश्वालस्य कथाकृतिषु नारी-चेतना

 

(लेख-सारांशः - युगे युगे नारी जनसमाजे सम्मानार्हा महिला आदरणीया पूजनीया च भवति । जगतां सर्जना-विधौ नारी एव मुख्यकारणम् । सा जननी, भगिनी, कन्या, भार्या, वधूः, श्वश्रूः, गृहिणी, लक्ष्मी-स्वरूपिणी देवीरूपा इति महती प्रशस्तिः समुपलभ्यते काव्यग्रन्थादिषु । वेदादिषु नारी पत्युः सहधर्मिणी-रूपेण बहुमानिता आसीत् । वैदिक-कालादारभ्य अद्यावधि नारी सर्वदा सहनशीलतायाः प्रतिमारूपेण महनीया राजते । परन्तु विविध-कारण-वशात् साम्प्रतिके समाजे सा महीयसी महिला निर्यातिता इत्यपि दृग्गोचरीभवति । आधुनिक-संस्कृतसाहित्ये बहुलेखकानां विविध-काव्यकृतिषु नारी-सम्बन्धीयाः नानाविषयाः चर्चिताः समुपलभ्यन्ते ।  स्वप्रतिभया सुपरिचितस्य आधुनिक-कथाकारस्य श्रीबनमालि-बिश्वालस्य विविध-काव्येषु कथा-सङ्ग्रहेषु च नारीणां सामाजिकी स्थितिः स्थानप्राप्ता वर्त्तते । तस्य नीरवस्वनः, बुभुक्षा, जिजीविषा चेति कथासङ्ग्रह-ग्रन्थत्रये नारीणां नानाभाव-दशाः वर्णिताः सन्ति । पारिपार्श्विक-विविध-हेतोः नार्यः कथं पीड़िताः, निर्यातिताश्च भवन्ति, एतद्विषयाः विविध-कथामाध्यमेन लेखकेन सम्यक् प्रदर्शिताः । कतिपय-कथासु नार्याः त्याग-सहिष्णुतादिकमपि विशदीकृतमस्ति । नार्याः चरित्रस्य सकारात्मकं तथा नकारात्मकमपि चित्रणं कथाकारस्य लेखन्यां साम्प्रतिकीं सामाजिक-व्यवस्थां परिचाययति । ग्रन्थत्रये विषय-वस्त्वाधारेण कथानां शीर्षकजातमपि समीचीनं सार्थकमेव लक्ष्यते ।  प्रस्तुते लेखे श्रीबिश्वालस्य एतादृशानां नारी-विषयाणां सम्यगनुशीलनं कर्त्तुं विहितोऽस्ति प्रयासः ।)       

*

उपक्रमः

     समयस्य परिवर्त्तनेन साकं नारी-स्थितौ परिवर्त्तनं परिलक्ष्यते । वैदिक-युगे तथा पौराणिक-युगे नारी ऐश्वर्यस्य शक्त्याः सम्मानस्य च प्रतीकभूता आसीत् । नारीं प्रति उपयुक्त-सम्मान-प्रदानेन देवताः शान्तिं प्रीतिं च प्राप्नुवन्ति इति मानसिकी भावना अस्माकं समाजे सुविदिता । नारी-मर्यादा-विषये प्रसिद्ध-धर्मशास्त्रकारेण आचार्य-मनुना यथार्थमुक्तम्- यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः । यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥(मनुस्मृतिः, /५६) । वैदिक-साहित्यानुशीलनेन ज्ञायते यत् वैदिक-काले स्त्रीणां स्थानमत्यन्तं गौरव-सम्पन्नमासीत् । रामायण-महाभारत-कालेऽपि नार्यः शिक्षिताः आसन् । आधुनिक-युगे विज्ञानस्य विकासात् परं वस्तुवादि-सभ्यतायां नार्याः रूपरेखा शनैः शनैः परिवर्त्तिता समनुभूयते । परिवारे समाजे च शान्तिं-सौहार्द्य-स्थापन-निमित्तं नार्याः भूमिका यद्यपि गुरुत्वपूर्णा वर्त्तते, तथापि पुरुष-प्रधाने समाजे नारी केवलं भोग-विलासस्य वस्तुरूपेण परिगणिता इति प्रतीयते । समग्र-विश्वे जनसंख्यायाः अर्द्धाधिका नारी, तथापि विभिन्न-क्षेत्रेषु सा अवहेलितं जीवनं यापयति ।

 

     साम्प्रतिके वैज्ञानिके युगे सङ्घर्षं कुर्वतः मानव-जीवनस्य विविधाः अनुभूतयः आधुनिक-साहित्ये स्थानं प्राप्राः विलोक्यन्ते । साम्प्रतिके संस्कृत-साहित्ये अन्यतमः सुप्रतिष्ठितः सारस्वत-साधकः कवि-कथाकारः बनमाली बिश्वालः नूतन-काव्यभङ्ग्या लेखनी-चालनां कुरुते । तस्य कवेः विविधाः कथाः नूतनमेकं दिग्दर्शनं कारयन्ति । समाजे स्थितानां समुपेक्षितानां जनानां दशा तस्य विरचितासु विविध-कथासु वर्णिता संदृश्यते । कथायाः नायको भवति समाजस्य कोऽपि उपेक्षितः, सबलैः प्रतारितः, दुर्भाग्यैः प्रपीडितश्च सामान्यो जनः । वस्तुतः समाजस्य निम्नस्तर-स्थितानां नारीणां शोचनीया जीवन-पद्धतिः, यौन-शोषणम्, उपेक्षा, उत्पीडनं चेत्यादिकं सहानुभूत्या सह विविध-कथासु उपनिबद्धम् । एतादृशानां दलित-पीड़ित-निम्नवर्ग-नारीणां कृते कथाकारस्य अकृत्रिमा सहानुभूतिः नितरां स्पन्दते । श्रीबिश्वालस्य नीरवस्वनः, बुभुक्षा, जिजीविषाचेति त्रिषु कथा-सङ्र्ग्रहेषु नारी-जीवनस्य संघर्षपूर्णा कथावली भिन्नरुपेण रूपायिता विलोक्यते । एषु चित्रितानां नारी-विषयक-चरितानां विवेचनार्थं प्रस्तुत-लेखेऽस्मिन् कृतोऽस्ति प्रयासः । 

 

नीरवस्वनः-ग्रन्थे नारी-चित्रणम् : 

     श्रीबनमालि-बिश्वालस्य १९९८-तमे वर्षे प्रकाशिते एकत्रिंशत्-लघुकथा-संवलिते नीरवस्वनःइत्याख्ये कथा-संग्रहे दीनहीन-जनानां व्यथा, यौतुक-प्रथा, नारी-निर्यातना चेत्यादिकाः विषयाः वर्णिताः सन्ति । कथाकारेणअपमृत्योः पुनर्जन्म, चक्रव्यूहःचेत्यादि-कथासु नारी-जीवनस्य व्यथा सम्यक्तया प्रतिपादिता । 

 

     नीरवस्वनः इति कथा-संग्रहस्य चम्पी इति प्रथम-कथायां दृष्टिपथमवतरति मार्गेषु विचरन्ती अनाथा असहाया सामान्या चम्पी’-नाम्नी नारी । अत्र नायिकायाः विक्षिप्त-मानसिकतायाः मार्मिकं चित्रं प्रदर्शितम् । तस्याः उपरि समाजस्य असामाजिक-युवकानां यौन-शोषणेन सा अवैध-शिशोः मातृत्वमपि स्वीकरोति । तस्याः पीड़ा-विषये कथाकारेण वर्णितमित्थम्,                                                                                                                              

   गर्भे किं पापं, किं वा पुण्यं कथं वा जानीयात् चम्पी ?  सा एतदपि न जानाति यत् तस्याः जात-सन्तानस्य कोऽस्ति जनक इति । (नीरवस्वनः, पृ. )

 

      पुनश्च तस्याः शिशोः पितुः सम्बन्धे पृष्टा सती सा प्रश्न-कर्त्तारमेव शिशोः जनक-रूपेण कथयित्वा प्रश्न-कर्त्तारं पलायितुं विवशीकरोति । अस्मिन् विषये कथाकारेण उक्तम्,

       अग्रे चोपसर्प्य आक्षेप-मुद्रायां कश्चिदपृच्छत्,

         - ‘अरी पुंश्चलि !  कस्यायं शिशुः ?’

         - ‘मम,  निर्भीकतया मातृत्वं न्यवेदयत् चम्पी ।

         - ‘कोऽस्त्यस्य जनकः ?  सक्रोधमपृच्छद् आक्षेपकः ।
         - ‘
त्वम्। चम्प्याः सहजमुत्तरम्   (नीरवस्वनः, पृ. )

    अनेन भावेन कथाकारेण अस्यां कथायां पुरुषाणां अमानुषिक-मनोवृत्तिमुद्घाट्य समाजस्य शोषक-मनोवृत्तेः, एकस्याः असहायायाः नार्याः बहुमुखीशोषणस्य विवश-मानसिकतायाश्च मर्मभेदिनी अभिव्यक्तिः प्रदर्शिता ।  

 

       अभीप्सा इति कथायाम् एकस्याः विधवायाः विमला-देव्याः जीवनस्य हृदय-विदारकं दुःखं चित्रितम् । सा समाजे स्वपुत्रं प्रतिष्ठापयितुं बहु-बाधाविघ्नानां सम्मुखीना भवति । तत्पश्चात् तस्याः पुत्रोऽपि समुच्च--पदं लब्ध्वा विमला-देव्याः लक्ष्यं पूर्णं कृतवान् । किन्तु दुर्भाग्यस्य विषयो भवति यत् तस्याः सम्मुखे यदा सुखस्य समयः समुपस्थितो भवति, सा तं द्रष्टुं संसारेऽस्मिन् न स्थिता । कथाकारेण एतत्-कथायाः अन्तिम-वाक्ये लिखितम्,  

   " परं हन्त ! तदीय-साफल्यं श्रुत्वा आनन्दाश्रुकणान् विगलयितुं न कोऽपि आसीत् प्रतीक्षमाणस्तत्र । चिर-निद्रायां वर्तमानां मातरमाश्लिष्य उच्चैररोदीत् सुरेशः - मातः ! मातः ! मातः ! " (नीरवस्वनः, पृ.१५) एवंरूपेण अत्र मातृवात्सल्यं तथा जीवनस्य सङ्घर्षजातं हृदयग्राह्य-रूपेण चित्रितम् ।

 

     भ्रान्त-तारका इति कथायां स्वप्रेमिणा शेखरेण पराजितासरिता’-नामिकायाः नायिकायाः मनोव्यथा वर्णितास्ति । एकदा रूपयौवन-सम्पन्नां सरितां प्रति शेखरः प्रणयाकृष्टो भवति । ततः उभयोर्मध्ये निविड़-प्रेम-सम्पर्कः स्थापितः । किन्तु यदा सा वसन्त-रोगेण पीड़िता अभवत्, तस्याः समस्तं रूप-लावण्यं म्लानमजायत । कवेः भाषायाम् - "मध्याह्ने शशिमण्डलं कवलितं क्रूरात्मना राहुणा ।" (नीरवस्वनः, पृ. २३) ।  एतत् सर्वं ज्ञात्वा शेखरः तस्याः प्रत्याख्यानं कृतवान् । अनेन एतत् स्पष्टं भवति यत् शेखरः केवलं सरितायाः शारीरिक-सौन्दर्येण एव समाकर्षितः आसीत्, न तु तस्याः आन्तरिक-सौन्दर्येण । अतः निराशा सती सरिता एकाकिनी एव स्वकीयं जीवनं यापयितुं संकल्पं कृतवती ।   

 

    पद्याराज्ञीइत्यस्यां कथायां परिस्थित्यनुसारेण आत्मनः त्रिभिः सन्तानैः सह पद्यायां जीवन-यापनार्थंतारायाःविवशता दृश्यते । जीविकान्वेषणार्थं महानगरमागत्य तस्याः पतिः कैश्चित् पापाचारैः साकं असामाजिक-कार्ये संलिप्तोऽभवत् । दौर्भाग्यात् ते पापाचाराः तारां धर्षितवन्तः । एवंरूपेण तया तारया सदृशाः धनहीनाः नार्यः अभाववशात् सामाजिक-विषमतातले सबलैः दलिताः निष्पेषिताश्च भवन्ति इति कथाकारः सूचयति । एषा कथा पाठकानां हृदये नूनं गभीरां व्यथां प्रति समवेदनां जनयति ।

 

    अपमृत्योः पुनर्जन्म इति कथा एकस्याः अविवाहितायाः अन्तःसत्त्वायाः नायिकायाःशुभ्रायाःमनोव्यथां वर्णयति । एतस्याः शुभ्रायाः दूर-सम्पर्कीयः पितृस्वस्रीयः भ्राता वर्त्तते समीरः । एकदा उभयोः मध्ये गभीर-प्रेम-सम्बन्धः घनिष्ठो भूत्वा शारीरिक-सम्पर्क-रूपेण परिणतो भवति । किन्तु यदा समीरः तस्याः अन्तःसत्त्वता-विषयं जानाति, तदा तां प्रति प्रत्याख्यानं करोति । सौभाग्यवशतः तस्याः अतीतं ज्ञात्वा अपि कश्चिदपरः सुजनः तां पत्नीरूपेण स्वीकरोति । अनेन शववत् जीवमानायाः शुभ्रायाः पुनर्जन्म भवति इति सार्थकं कथा-शीर्षकम् ।  कथायाः अन्तिम-वाक्ये अभिहितम्, - समीरेण छलिता शुभ्रा मृता वर्त्तते । मद्वक्षसि समर्पिता युवती काचिदपरा शुभ्रा वर्त्तते, यस्याः पुनर्जन्म सद्योऽभवत् । (नीरवस्वनः, पृ.१०८)  

 

    चक्रव्यूहःइत्यस्यां कथायां नगरे कर्फ्यु-ग्रस्त-मार्गे प्रतीक्षा-रतायाः असहायायाः कस्याश्चित्  युवत्याः चरित्रं चित्रितम् । तस्याः असहायतां दृष्ट्वा सहायतार्थं समागत्य विश्वम्भरः तां युवतीं स्वगृहे स्थातुं निज-पत्न्या साकं स्वीकृतिं प्रदत्तवान् । परस्मिन् काले तस्याः दुरवस्थां विज्ञाय तौ दम्पती स्वपुत्रयोः पाठनार्थं स्वगृहे स्थातुं तां युवतीं कथितवन्तौ । किन्तु समय-क्रमेण सा युवती विश्वम्भरं प्रति प्रणयाकृष्टा अभवत् । क्रमेण उभौ परस्परं प्रति प्रेमाकृष्टौ सञ्जातौ । कथाकारस्य वर्णनायाम् उक्तिरियम् - "कामासक्तायाः युवत्याः प्रेमः, कस्तूरीमृगस्य गन्धश्च शतचेष्टयाऽपि गोपयितुं न शक्यते ।" (नीरवस्वनः, पृ. ११५) विश्वम्भरस्य पत्नी सुधा एकदा उभौ असंयतावस्थायां  दृष्ट्वा तां युवतीं स्वगृहात् बहिष्कर्त्तुं तथा स्वपितृगृह-गमनस्य विषयं कथितवती । एतत् सर्वं श्रुत्वा विश्वम्भरः किंकर्त्तव्य-विमूढ़ो जातः । सा युवती केन रूपेण असहायावस्थायां त्यक्तुं शक्यते, पुनश्च स्वपरिवारोऽपि कथं त्यक्तुं वा शक्यते इति महती समस्या तस्य सम्मुखे उपस्थिता जाता । प्रसङ्गेऽस्मिन् कथाकारस्य उक्तिरेवम् कथं भेत्तव्योऽयं चक्रव्यूह इति विचिन्त्य विचलित आसीत् कश्चिदपरोऽभिमन्युः ।(नीरवस्वनः, पृ.११५)  अनया कथया इदं ज्ञायते यत् सुधा तां युवतीं असहाय-दशायां साहाय्यं कृतवती । किन्तु तत्परिवर्त्ते सा युवती सुधां प्रति विश्वास-घातं करोति । सा एका नारी सती अपि अपर-नार्याः वैवाहिक-जीवनं विनाशयितुमपि न कुण्ठिता जायते । नारी-चरित्रस्य इयं नकारात्मिका दिशा ।    

 

     आस्थायाः आस्थाइति कथायां बहुभाषिणी, हास्यमुखी आस्था-नाम्नी नायिका वर्त्तते । अत्र तस्याः  उन्मुक्त-निर्विकार-व्यवहार-विषयादिकं वर्णितम् । तस्याः एतादृश-व्यवहारेण सा सहजतया सर्वेषां विश्वासं जेतुं समर्था भवति । एकेन दर्शनेन एव सा सर्वान् स्वां प्रति समाकर्षति । फलतः सा कदाचित् समस्यानामपि सम्मुखीना  जायते । परन्तु सा अविचलिता सती सुचारु-रूपेण तत् समस्या-सर्वं दूरीकरोति । एवंप्रकारेण सा स्वयं हसित्वा अपरान् हासयित्वा च स्वजीवनस्य लक्ष्यं साधयति । पुनः कथाकारेणसुमित्राइति कथायां पुरुषस्य जीवने पत्न्याः महत्त्वमत्यन्तं सुन्दरतया वर्णितम् । पत्न्याः रेलस्थानकात् गृहं प्रत्यागमनात् पूर्वमेव स्वामिनः मनोदशा, व्यग्रता च अत्र वर्णिता । अनया चिन्तया सः अत्यन्तं भयभीतो भवति । प्रसङ्गेऽस्मिन् कथाकारेण उपमायोजनेन उक्तम्, " मार्जाराशङ्कया मूषिक इव भीतोऽभवद् रतिकान्तः ।" (नीरवस्वनः, पृ.८०) ।  एवम्प्रकारेण  ‘नीरवस्वनः’-कथासंग्रहस्य एषाः कथाः नारी-जगति व्याप्ताः समस्याः प्रकटयन्ति ।

 

बुभुक्षा’-ग्रन्थे नारी-चित्रणम् :

       श्रीबिश्वालस्य द्वितीयः कथासंग्रहः बुभुक्षा-इत्याख्यः । अयं चतुर्विंशति-लघुकथानां सङ्कलनरूपः । अत्र  अस्माकं समाजे निकटवर्त्ति-जनानां जीवनस्य सजीव-चित्रणं विलोक्यते । अत्र परो धर्मो भयावहः इति कथायाम् इलियाना फ्रान्सिस्की इति-नामधेयायाः एकस्याः वैदेशिकी-नार्याः चरित्रं वर्णितम् । सा विदेशतः हिन्दु-धर्ममधिकृत्य गवेषणार्थं भारतवर्षमागतवती । वाराणसी-नगर्यां स्थित्वा सा विदुषः पञ्चानन-द्विवेदिनः सकाशात् वेदोपनिषत्-स्मृति-धर्मशास्त्रादि-विषयेषु ज्ञानमर्जितवती । वाराणस्यां वर्षद्वयं स्थित्वा सा इलियाना भारतीय-धर्मं व्यवहारोपयोगिनीं हिन्दी-भाषामपि ज्ञातवती । पुनश्च भारतीयां वेशभूषामपि स्वीकृतवती । यदा सा द्विवेदिना साकं प्रयागं गतवती, तत्र माधव-त्रिपाठी इति-नाम्ना तरुणेन सह तस्याः परिचयो जातः । तत्र उभयोः प्रेम-परिणयोऽपि सम्पन्नोऽभवत् । विवाहात् परं सा इलियाना माधवेन सह स्वपितरौ मिलितुं स्वजन्मभूमिं जर्मन्-देशं प्रयाता । एकमासादनन्तरं पुनः भारतमागत्य भारतीयमध्यात्म-विषयादिकं ज्ञातुं तस्याः जिज्ञासा अभवत् । एवं भारतीय-युवकेन साकं विवाह-सम्पादनं तस्याः एकं महत्वपूर्णमुद्देश्यं भवति । परन्तु माधवः  स्वदेशं परित्यज्य तत्रैव जर्मन्-देशे चिरं स्थातुं स्वाभिलाषं व्यक्तवान् । तया सार्धं विवाहेन तस्याभिलाषः पूर्णतां प्राप्तः । परिशेषे इलियाना पुनः भारतं प्रत्यागच्छत् । सा अपि माधववत् स्वीय-योजनायां दृढ़ा आसीत् । अतः सा माधवेन प्रेषिताय त्यागपत्राय स्वीकृतिमपि दत्तवती । अत्र इलियानायाः साहसः प्रंशसनीयो भवति । सा स्वयं एकाकिनी एव स्वीयं लक्ष्यं प्राप्तुमग्रेसरति । पुनश्च कथायाः अन्तिम-वाक्ये भारतीयां संस्कृतिं प्रति उदासीनान् भारतीय-जनान् प्रति व्यङ्ग्योक्तिः स्पष्टरूपेण प्रतीयते । कथाकारेण भारतीय-महत्त्व-विषये साधु वर्णितम्  -  

"एतादृशी सुसमृद्धा भारतीय-संस्कृतिः, भारतीय-परम्परा च यदि विदेशिनः आकर्षितुं प्रभवताम्, तर्हि ते भारतीयान् ऐक्यसूत्रेण बन्धुं किमर्थं न प्रभवतः ? " (बुभुक्षा, पृ.१५)

    

      दुश्चरित्रा इत्याख्यायां कथायां पतिव्रतायाः सहजोन्मुक्त-व्यवहार-युक्तायाःसौदमिनी’-नामिकायाः नायिकायाः चरित्रं वर्णितम् । सा विवाहिता, सन्तानद्वयस्य जनन्यपि आसीत् । रूपयौवन-सौन्दर्य-दृष्ट्या सा आधुनिका नारी । तस्याः सुन्दरेण प्रेमभरितेन उन्मुक्त-व्यवहारेण युवकाः प्रोढ़ाश्च सर्वे आकर्षिताः भवन्ति । तस्याः व्यवहारेण सर्वे स्वं स्वं प्रति अनुरागं मत्वा प्रसन्नाः भवन्ति । जनाः कदाचित् तस्याः निन्दायां व्यापृताः भवन्ति, कदाचित् च तस्याः सान्निध्यं प्राप्य तस्याः प्रशंसायां शतमुखाः भवन्ति । अतः पतिव्रतां सच्चरित्रां सौदामिनीं दुश्चरित्रा इति कथयित्वा निन्दामपि कुर्वन्ति । तस्याः एतादृशः उन्मुक्त-व्यवहारः तस्याः विशिष्टः स्वभावः वर्त्तते, न तु चरित्रहीनतायाः । विषयेऽस्मिन् कथाकारेण उक्तम्-   

      मन्ये, यदि संसारे सर्वाः स्त्रियः सौदामिनीवत् सुशीलाः स्युस्तर्हि तासां पतयः कामपि सौदामिनीं दुश्चरित्रां कर्त्तुं नोत्सहिष्यन्ते ।(बुभुक्षा, पृ.२३)

 

     वासुदेवस्य जन्मदिनम्इति कथायां स्वपत्या वञ्चितायाः अवलायाःशङ्कर्याःमातृत्व-पीड़ायाः चित्रणं वर्त्तते । अत्र तस्याः पतिः स्वपदोन्नतये स्वपत्नीमपि कामुकं स्वाधिकारिणं निकषा प्रेषितवान् । आत्मरक्षार्थं शङ्करी तस्य हत्यां कृत्वा कारावास-जीवनमतिवाहितवती । वासुदेवः तस्मिन् कारावासे एव जन्म लब्धवान् । परन्तु यदा वासुदेवः षड्वर्षीयः संवृत्तः, तदा वासुदेवः कारागारं विहाय बालाश्रमे स्थास्यतीति नियमः आसीत् । अतः सा पुत्रस्य वियोगजं दुःखं सोढ़ुं समर्था नाभवत् । एकस्मिन् पक्षे मातृविरह-विषये अनभिज्ञस्य पुत्रस्य जन्मोत्सव-पालनार्थं सा प्रसन्ना जाता, अपर-पक्षे कियत्कालादनन्तरं पुत्रवियोग-जनितं दुःखं चिन्तयित्वा दुःखिता सञ्जाता । कथायाः अन्तिम-वाक्ये वर्णितमस्ति- 

  माता शङ्करी तु अनागतामपि पुत्रविरह-वेदनां हृदि वहन्ती न हसितुं न वा रोदितुं प्रभवति । (बुभुक्षा, पृ.२८) । एवंरूपेण अत्र मातुः पुत्रवियोग-जनिता हृदय-विदारिणी व्यथा वर्णिता ।

 

       आधुनिक-शिक्षित-समाजेऽपि नारी स्वामिनः मनस्कामना-पूरणार्थं स्वकीयमभिलाष-सर्वं परित्यजति ।  दीपशिखायाः संस्कृत-शिक्षा इति कथायां नायिकायाः दीपशिखायाः संस्कृत-पठनार्थं जागरितः अभिलाषः स्वपत्युः इच्छां  पुरतः म्लानः अभवत् अर्थात् संस्कृत-पठने विरामो जातः । इत्थं कथाकारेण पत्या प्रतारितायाः नार्याः चरित्रं विशदीकृतम् । एवम्प्रकारेण ‘बुभुक्षा’ इति कथासंग्रहस्य उपर्युक्तासु कथासु नारी-सम्बन्धिताः विषयाः चित्रिताः समुपलभ्यन्ते ।

 

जिजीविषा’-ग्रन्थे नारी-चित्रणम्: 

       श्रीबनमालि-बिश्वाल-प्रणीते २००६-तमे वर्षे प्रकाशिते जिजीविषा इति कथा-संग्रहे जीवन-रक्षणार्थं दरिद्राणाम् अदम्या इच्छा, जीवनस्य महत्त्वादिकं च वर्णितम् । अत्र मध्यस्रोतःइति कथायांनाचम्मा’-नामिकायाः नायिकायाः सङ्घर्षपूर्णा जीवन-गाथा दृष्टिपथमायाति । नाचम्मा राजारेड्डी च स्वपरिवारे सुखमयं जीवनं निर्वहन्तौ स्तः । एकदा  नाचम्मायाः स्वामी राजा-रेड्डी जीविका-निर्वाहार्थं मत्स्यान् मारयितुं समुद्रं गत्वा न प्रत्यावर्त्तते । पत्युरागमन-विषये संशय-भावयुक्ता नाचम्मा स्वशिशु-कन्यायाः बुभुक्षया व्यथिता सती आपणिक-मित्रस्य आतिथ्य-प्रस्तावं स्वीकृतवती । कामलोलुपस्य आपणिक-मित्रस्य मन्दोद्देश्य-विषये अनभिज्ञा सा तस्य सेवां कुर्वती कदा पतन-गर्त्ते गच्छति सा स्वयमपि न ज्ञातवती । एवंरूपेण क्षुधा-त्पीडितायाः स्वशिशु-कन्यायाः उदर-पूरणार्थं स्वपातिव्रत्य-धर्ममपि त्यक्तुं विवशा नाचम्मा पतनशीलवृत्तिं समाचरति । अत्र विडम्बनात्मिकायां भावोत्कर्ष-स्थितौ पर्यवसिता इयं कथा ।

 

     उन्मुक्तद्वारस्य पराहतश्चीत्कारःइति कथायां कमलायाः दुर्भाग्यपूर्णायाः दुरवस्थायाः करुणात्मकं दृश्यं वर्णितम् । अत्र कमलायाः पतिः चक्रवाते मृतोऽस्ति इति विषयं सा न स्वीकृतवती । अतः सा सधवावत् जीवनं यापयति । पत्युः आगमनाकाङ्क्षया रात्रौ गृहस्य द्वारमुन्मुक्तं कृत्वा प्रतीक्षा-रता तिष्ठति । अतः अस्यावसरस्य सुयोगं नीत्वा स्व-स्व-लालसां पूरयितुं केचन दुरात्मानः तां धर्षितवन्तः । प्रसङ्गेऽस्मिन् कथाकारेण वर्णितम् -  

        "प्रातःकाले ग्रामस्य जनाः दृष्टवन्तः यत् कमला स्वगृहे मृतवत् अचेतना, आलुलित-केशा, विवस्त्रा च स्वपिति । तस्याः मुखं पटेन आवृताऽस्ति ।** उन्मुक्तद्वारस्य समीपे उपविश्य रात्रिगतां घटनां संस्मृत्य सा उच्चैः रोदितवती । ततः किमपि मनसि विचार्य सा स्वहस्त-वलयं भङ्क्त्वा सीमन्ततः सिन्दूरं प्रोञ्छितवती । यथा कमलायाः पतिः इदानीमेव मृतः । सः इदानीमेव विधवा संवृता ।" (जिजीविषा, उन्मुक्तद्वारस्य पराहतश्चीत्कारः) । आधुनिक-शिक्षित-समाजेऽपि नारी असुरक्षिता वर्त्तते । कथायामस्यां निर्यातितायाः कमलायाः शारीरिकी मानसिकी च व्यथा अत्यन्तं हृदय-विदारिणी वर्त्तते ।

 

     जिजीविषा इत्याख्यायां कथायाम् एकसप्तति-वर्षीयायाः वृद्धा-नायिकायाःसेवत्याःअदम्य-साहसिकता जनानां जीवने प्रेरणा-स्वरूपा समनुभूयते । सा यौवनावस्थायां पत्युः वियोगेन जीवनस्य विषम-परिस्थित्यामपि स्वपुत्रस्य लालन-पालनं कृतवती । यदा तस्याः कृते सुखस्य समयः समुपस्थितः, तदा तस्याः पुत्र-वध्वोः मृत्युरभवत् । अतः पुनश्च वृद्धा-वयस्यपि शिशुपौत्री-पौत्रयोः भरण-पोषणस्य उत्तरदायित्वं तस्याः उपरि एव आगच्छत् । स्वपौत्री-पुत्रयोः भविष्य-चिन्तया सा असम्भवमपि सम्भवं कृतवती । कथाकारेण यथार्थमुक्तम् -  

    "वस्तुतः जिजीविषा हि मनुष्यं जीवयति, न अन्या । सर्वथा समर्थोऽपि अयं ट्रलीशकट-वाहकः जिजीविषाभावे जीवनाद् वीतस्पृहः सन् आदिवसं मद्यं पीत्वा मृत्युम् आलिङ्गति । पक्षान्तरे सत्यां हि महत्यां जिजीविषायां काचित् मृत्युपथस्य यात्रिका स्वस्थं जीवनं यापयितुं पारिवारिकमुत्तरदायित्वं च निर्वोढुं सन्नद्धा वर्तते ।"  (जिजीविषा)

इत्थं मृत्युपथ-यात्रिका सेवती जीवन-धारणाय धैर्यवती ।                                                                                                                                                                     

 

     पुनः अस्मिन् कथासंग्रहे अपूर्व-त्यागःइति कथायां माधवी’-नामिकायाः नायिकायाः त्यागादिकं लभ्यते विषयवस्तु । कदाचित् देवनाथः तथा नवनियुक्ता वैयक्तिक-सहायिका माधवी, एतयोः उभयोः मध्ये अवैध-प्रेमसम्पर्कः स्थापितः । अतः देवनाथः तत्-सङ्घटितायाः दुर्घटनायाः क्षतिपूरणार्थं प्रेम-परायणां स्वपत्नीं त्यक्त्वा तया सह विवाहं कर्त्तुं प्रस्तुतो भवति । किन्तु अन्ते माधवी देवनाथस्य पत्न्याः किन्नरीत्वं विज्ञाय सर्वविध-सुखमय-परिणयस्य प्रस्तावमस्वीकृत्य कथयति एवंरूपम् -

   भवान्  पुरुषो भूत्वा यदि एतादृशं कष्टं स्वीकृत्य एकस्याः स्त्रियाः जीवनं सुखमयं कर्त्तुं कठोरं त्यागमाचरितवान्, तर्हि किमहं नारी भूत्वा स्वार्थवशात् एकस्याः नार्याः जीवनं विनंक्ष्यामि ? नहि, नहि, निश्चिन्तस्तिष्ठतु |” (जिजीविषा, अपूर्वः त्यागः)  

 

     वंशरक्षाइति कथायां पत्युः पुत्र-मोहवशात् बलीभूतस्य कन्याद्वयस्य भ्रूणहत्यया व्यथितायाः विवशायाश्च मातुः पीड़ा वर्णितास्ति । प्रभायाः पतिः मनीषः वंशरक्षा-निमित्तं पुत्रप्राप्ति-कामनया प्रभां भ्रूण-परीक्षणार्थं चिकित्सालयं गन्तुं विवशां कृतवान् । किन्तु पूर्वकन्या-भ्रूणद्वयस्य हत्याकारणात् अत्यन्त-दुःखिता प्रभा परिवर्त्तित-मानसा भूत्वा प्रतिज्ञां करोति एवंरूपेण -

    स्वयं नारी सती अहं नारी-जात्याः कृते इममत्याचारं न सहिष्ये । यतः मम आत्मा एव मां धिक्करोति । एतावत्कालं यावत् मया तद् भ्रूण-हत्यारूपं पापमाचरितम्, तस्य कृतेऽपि प्रायश्चित्तमपेक्ष्यते । श्वश्र्वाः पत्युश्च विरोधं कृत्वा इमं सन्तानम् अवश्यं प्रसविष्ये । वंशरक्षारूपस्य अन्ध-विश्वासस्य कृते अहं सृष्टेः व्यवस्थां स्वहस्ते न नेष्यामि । गर्भस्थः शिशुः कन्या भवतु, पुत्रो वा, अहं तमवश्यं रक्षामि ।(जिजीविषा, वंशरक्षा)  

 

    अनेन वचनेन क्रुद्धः सन् मनीषः तस्याः उदरोपरि स्वपाद-प्रहारं करोति । चिकित्सालये स्वामिकृत-प्रहारवशात् मूर्च्छितायाः प्रभायाः गर्भस्थ- पुत्रशिशु-भ्रूणस्य मृत्युः भवति । तत्र चिकित्सिका कथयति, प्रभा अग्रेऽपि माता भवितुं न शक्ष्यति  इति । एवं श्रुत्वा मनीषस्य अवस्था चिन्ताग्रस्ता जाता । अद्यतन-शिक्षित-समाजेऽपि जनाः कन्याभिः वंशरक्षा न भवतीति मानसिकतया समाजे पुत्रसन्तान-लाभार्थं नियम-विरुद्धं पापमाचरन्ति । इत्थं  पुत्रप्राप्ति-कामनया मनीषः कन्यायाः पिता भवितुं नार्हति ।    

 

    भिन्ना पृथ्वी इत्यस्यां कथायांस्मैक्नामक-मादकद्रव्य-सेवने अभ्यस्ता एकस्याः स्त्रियाः  सुशीलायाः दुर्दशा वर्णितास्ति । तस्याः मतेनस्मैक्हि जीवनमेव । स्मैक-सेवनाय सा शारीरिक-व्यापारेऽपि संलग्ना जायते । सर्वदा मादकद्रव्य-ग्रस्ता सा स्वकन्यायाः मृत्यौ अपि मनसि किञ्चिदपि दुःखं न करोति । तयोः दम्पत्योः मतेन कन्यायाः लालन-पालनं भरण-पोषणं च भार-सदृशम् । अतः मादकद्रव्य-सेवनेन सुशीलायाः मातृत्व-स्नेहोऽपि बलीभूतः ।  सुशीलायाः समक्षमेव तस्याः पतिः स्वमृत-कन्यायाः शवं नगर-पालिकायाः याने निक्षिपति । कथाकारेण तस्याः भावनाविषये वर्णितम् - "एतस्याः कन्यायाः मृत्युरेव आवयोः काम्य आसीत् । आवां यावदुपार्जयावः तेनावयोः मादकद्रव्यस्य व्यवस्था यथाकथमपि भवति । एतां वा कथम् अपालयिष्याव । अपरं च यदि सा अजीविष्यत्, तर्हि नूनं नरकमेव अभोक्ष्यत ।" (जिजीविषा, भिन्ना पृथ्वी) । अनेन स्पष्टतया अवगम्यते यत् मादक-सक्तानां सम्मुखे स्नेह-श्रद्धादिकं मानवीय-भाव-गुणसर्वमपि मूल्यहीनं जायते ।

 

    नीलाचलःइति कथायांसावित्री’-नामिकायाः नायिकायाः अवैध-सम्पर्क-विषयो वर्णितः ।  तस्याः शारीरिक-सम्बन्धः तस्याः गृहसेवकेन साकं आसीत् । तयोः सम्बन्धस्य फलस्वरूपं नीलाचलस्य जन्म अभवत् । पापगर्भः’-कथायां पति-परित्यक्तायाः दुश्चरित्रायाःसत्यवतीइत्याख्यायाः नायिकायाः चरित्रं विशदीकृतमस्ति कथाकारेण ।नीलाचल’-कथावत् अत्रापि सत्यवत्याः अवैध-सम्पर्क-विषयः चित्रितः । दोलयात्रा-महोत्सवे कस्यचित् ड्रम्-वादक-युवकेन साकं तस्याः प्रेम-सम्पर्कः स्थापितः, तेन सा गर्भवती अभवत् । तस्याः पापगर्भस्य फल-स्वरूपं जगन्नाथस्य जन्म । कथाकारस्य भाषायाम् -  

     "ततः जगन्नाथस्य नाम्ना भीताः ग्रामवासिनः न कामपि आपत्तिं प्रकटितवन्तः, न वा प्रायश्चितार्थं प्रस्तावमुपस्थापितवन्तः । एवं जगन्नाथ-नाम्ना एव सत्यावत्याः पापगर्भः धर्मगर्भे परिवर्त्तितः ।" (जिजीविषा, पापगर्भः)  

 

     अभिनवः शिशुपालःइत्यस्यां कथायां एवंविधायाः नायिकायाः चरित्रं चित्रितमस्ति, या यौतुक-समस्यायाः तीव्रं प्रतिरोधं करोति । वरपक्षतः समागतानां वरयात्रिणाम् अपमानस्य प्रतिशोध-निमित्तं यदा वर-पिता कन्या-पितरं सर्वेषां समक्षं क्षमा-याचनार्थं कथयति, तावत् स्वयमेव कन्या गृहात् निर्गत्य स्वपितरं क्षमा-याचनात् वारयति । वरपक्षस्य अमानविकतां असामाजिकीं मनोवृत्तिं च विज्ञाय सा कन्या तं विवाहं नाङ्गीकृत्य दण्ड-प्रदान-स्वरूपं वरपक्षं कथयति एवम् - यावत् एते विवाहात् पूर्वमेव अग्रिम-रूपेण गृहीतं कन्या-शुल्कं न प्रत्यावर्त्तयन्ति, तावत् वरमत्रैव स्थगयन्तु । धन-प्रत्यावर्त्तनं विना वरः इतः गन्तुं न शक्नोति ।(जिजीविषा, अभिनवः शिशुपालः) । अनेन कन्यायाः स्वाभिमान-सहिता अदम्य-साहसिकता तथा आत्मनिर्भरशीलता स्पष्टतया प्रतीता भवति ।

 

    काव्यं कथात्वमागतम् इति कथायाम् अभाव-ग्रस्तायाः एकस्याः श्रमिक-महिलायाः व्यथा प्रकाशितास्ति । श्रमिक-महिलायाः श्रमेण एव परिवारस्य, पुनः मादक-ग्रस्तस्य पत्युः भरण-पोषणस्य दायित्वं निर्भरं करोति । आत्मनः आयस्य सर्वमेव पत्युः मादकद्रव्य-क्रयणे याति, स्वपुत्रस्य बुभुक्षां च शमयति । अभाव-ग्रस्तायाः तस्याः पार्श्वे एका एव शाटिका वर्त्तते । अतः सा रात्रौ अग्निं प्रज्वाल्य प्रथमं वस्त्रस्य उपरिभागं तत्पश्चात् अपर-पार्श्वं शुष्कीकरोति ।  अस्मिन् प्रसङ्गे कथाकारेण महिलायाः मुखे वर्णितम्

     "मम पतिः न केवलं कश्चन मद्यपोऽस्ति, किन्तु सः श्रमचौरोऽपि वर्त्तते । अहं आदिवसं भृतिं कृत्वा यावदुपार्जयामि, सः  सायंकाले बलाद् गृहीत्वा मधुशालां गच्छति ।** किंन्तु यदा सः प्रत्यावर्त्तते, यदि तस्य कृते भोजनं न भविष्यति, तर्हि सः मामवश्यं ताड़यिष्यति । अत एव गृहे यत् किञ्चित् पच्यते, तत् प्रथमं तस्य कृते एव स्थापयामि । ततः किञ्चिदधिकं भवति चेत्, तर्हि एव अहं भोजनं करोमि । अन्यथा जलं पीत्वा रात्रिं यापयामि ।" (जिजीविषा, काव्यं कथात्वमागतम्) । वास्तवतया निम्नवर्गीय-मादकग्रस्त-समाजे नार्यः भिन्नभिन्न-रूपेण बहुकष्टं सहन्ते इति कथाकारेण विशदीकृतम् ।

 

    मानवात् दानवं प्रति इति कथायाः नायिकायाःश्रद्धायाःस्वामी स्वीयोन्नति-प्राप्तये स्वयमेव तां पतनशील-गर्त्ते पातयति । श्रद्धायाः पतिः रमापतिः तस्य अनुसन्धान-केन्द्रस्य उन्नत-निमित्तं स्वपत्नीम् एकं विदेशीय-परियोजनाधिकारिणं निकषा समर्पयति, अपितु मद्य-पानं कर्त्तुमपि तां विवशीकरोति । एवमेव समाजे नारी पत्युः आशाकाङ्क्षा-पूरणार्थम् आत्मनः अनिच्छयाऽपि स्वपातिव्रत्य-धर्मस्य जलाञ्जलिं दत्तवती । नार्याः एतादृशी दुर्दशा आधुनिक-युगे नितरां शोचनीया एव । अत्र साम्प्रतिक-समाजस्य नैतिक-मूल्यानाम् अवक्षयः स्पष्टतया प्रतीयते । इत्थम् अन्यासु कथास्वपि कथाकारेण नारी-विषयकं संवेदनात्मकं चित्रं वर्णितमस्ति ।  

 

नारी-चरित्र-विश्लेषणम् 

      कथाकारस्य श्रीबनमालि-बिश्वालस्य नीरवस्वनः, बुभुक्षा, जिजीविषा इति कथासंग्रह-त्रये नारीणां विशेषतः कारुण्यमयी गाथा वर्णिता दृश्यते । अस्मिन् त्रये वर्णितानां समाजस्य पीड़ितानां शोषितानाम् अभावग्रस्तानां च नारीणां चित्रं सहृदय-पाठकानां हृदि करुणरसस्य सञ्चारेण साकं सहानुभूतिं संवेदनां च जनयति । सामाजिक-व्यवस्थायां गृहस्थ-व्यापारस्य सुपरिचालना-निमित्तं शान्ति-सौख्यादिभिः पारिवारिकं जीवनमानन्दमयं विधातुं पुरुषस्य नार्याश्च उभयोः दायित्वं भवति । यदि केनचित्कारणेन सङ्कटादिकं सम्मुखे आपतति, तत्र धैर्यपूर्वकं कष्ट-निवारणार्थं चेष्टितव्यम् । समाज-रूपिणः रथस्य सञ्चालने उभौ नारी-पुरुषौ चक्र-स्वरूपौ । उभयोः परस्परं सहभागिता, सहयोगिता च नितरामपेक्षिता । सहनशीलताऽपि नितान्तं काम्या भवति सामाजिके जीवने ।  सर्वत्र केवलं पुरुषस्य दोषो न भवति अथवा केवलं नार्याः अपि दोषो न भवति । परिस्थिति-वशात् घटनावली कदाचित् सुखदा जायते, कदाचिद् दुःखदा अपि । परन्तु ज्ञातसारेण कृताः दोषाः न केवलं व्यक्तेः अपितु समग्र-समाजस्य क्षतिं साधयन्ति । पुरुषस्य भवतु, अथवाअ नार्याः, सद्गुणावली समाजस्य कृते समुपकारिणी प्रशंसनीया च भवति । 

 

      सेवती-चम्पी-प्रमुखानां चरित्र-चित्रण-माध्यमेन कथाकारेण नारी-जात्याः सम्मानार्थं जन-जागरणं कर्त्तुं प्रचेष्टा कृता । तेन नारीणां शारीरिकी मानसिकी च दशा हृदयग्राहि-रूपेण समुपस्थापिता । इलियानादि-चरित्र-चित्रणे नार्याः दृढ़-सङ्कल्पबद्धतापि प्रशस्या खलु । तस्य कथासु कुत्रचित् नारीं प्रति प्रतारणा, शोषणम्, दुष्कर्माचरणम्, निर्यातना चेत्यादयो विषयाः वर्णिताः । कदा सा स्वार्थं परित्यज्य परिवारस्य कृते महत् कष्टं सहते, कदा च वात्सल्य-संवर्धनार्थं स्वात्मानं दूषयति । माधवी-प्रभृतीनां नारीणां त्यागशीलता महनीयता प्रशस्यते । सा सर्वंसहा । मद्यपस्य स्वामिनः चरित्र-सुधारणार्थं पत्न्याः दायित्वमपि गुरुत्वपूर्णम् । कुत्रचित् पुरुषं प्रति नार्याः प्रवञ्चना-विश्वासघातादि-विषयाः अपि चित्रिताः । एवं नार्याः चरित्रस्य सकारात्मकं तथा नकारात्मकमपि चित्रणं कथाकारस्य लेखन्यां साम्प्रतिकीं सामाजिक-व्यवस्थां परिचाययति । नारी स्वगुणैः प्रतिभया च बहुक्षेत्रेषु अग्रेसरति, तथापि पुरुष-प्रधाने वातावरणे तस्याः स्थितिः कदा शोचनीया, कदा च सौख्यमयी जायते । प्रोक्ते ग्रन्थत्रये विषय-वस्त्वाधारेण कथानां शीर्षकजातमपि समीचीनं सार्थकमेव लक्ष्यते । पारिपार्श्विकं सामाजिकं च परिवेशमाश्रित्य घटनाजातं समाहृत्य कथाकारेण सुष्ठु रूपायितं कथारूपेण ।

 

उपसंहारः  

      बनमालि-बिश्वालः साम्प्रतिके संस्कृत-वाङ्मये अन्यतमः प्रगतिशीलः सर्जनात्मकः कथाकारः सारवत-शिल्पी । विविध-परिवेशे नारीजनानां सामाजिकी स्थितिः तस्य कथावल्यां सम्यक् चित्रिता । वास्तववादि वर्णनं तस्य विशेषत्वम् । कुत्रचित् सौन्दर्यादि-चित्रण-प्रसङ्गे तेन कल्पना-विलासस्यापि सहायता नीता । भाषा-भावादीनां समुपयुक्त-संयोजना-माध्यमेन तस्य कथावली तथाकथितायाः आधुनिकतायाः कुत्रचित् सुप्रभावं प्रकाशयति, पुनः परिवेशस्य अननुकूलत्वात् कुप्रभावं च द्योतयति । तस्य कथासु शब्द-संयोजना सरला सुबोधा मनोहारिणी च समनुभूयते । कथानां हृदयस्पर्शि-वर्णना-माध्यमेन समाज-संस्कारस्य वार्त्ता अपि निवेद्यते । एवं आधुनिक-संस्कृत-साहित्ये समसामयिक-समाजस्य वास्तव-घटनावली-चित्रणं विधाय कथाकारस्य बनमालि-बिश्वालस्य लेखनी सार्थकतां लभते ।

* * *

सहायक-ग्रन्थादि-सूची :

* मनुस्मृतिः, (सम्पादक : पण्डित हरगोविन्द शास्त्री), चौखम्बा संस्कृत सीरिज् ऑफिस्, वाराणसी, १९७०.

* संस्कृत साहित्य का इतिहास, आचार्य बलदेव उपाध्याय, शारदा निकेतन, वाराणसी, १९९०.

* नीरवस्वनः, बनमाली बिश्वालः, पद्मजा प्रकाशन, प्रयाग, १९९८. 

* बुभुक्षा, बनमाली बिश्वालः, पद्मजा प्रकाशन, प्रयाग, २००१.

* जिजीविषा, बनमाली बिश्वालः, पद्मजा प्रकाशन, प्रयाग, २००६.

* दृक्, अङ्कः- , १९९९, दृग्भारती, झूसी, इलाहाबाद, उत्तरप्रदेश.

* दृक्, अङ्कः-२४-२५, २०१०-११, दृग्भारती, झूसी, इलाहाबाद, उत्तरप्रदेश.

* दृक्, अङ्कः-२३, २०१०, दृग्भारती, झूसी, इलाहाबाद, उत्तरप्रदेश.

* दृक्, अङ्कः- २८-२९, २०१३, दृग्भारती, झूसी, इलाहाबाद, उत्तरप्रदेश.

* राधावल्लभ-त्रिपाठी, संस्कृतसाहित्य : बीसवीं शताब्दी, राष्ट्रिय-संस्कृतसंस्थानम्, नवदिल्ली, १९९९.

* हीरालाल-शुक्लः (सम्पा.), हिस्ट्री अफ् मडर्न् संस्कृत् लिट्रेचर्, निउ भारतीय बुक् कर्पोरेशन्,

   दिल्ली, २००२.                                                                                                                                                        

* आधुनिक-संस्कृत-कथाएं : स्थिति और प्रवृत्ति - डा. अर्चना तिवारी, पद्मजा प्रकाशन, इलाहावाद, २०११.

स्वागतिका-मिश्रः

शोधच्छात्रा

सम्बलपुर-विश्वविद्यालयः

बरगड़म्, ओड़िशा, भारतम्

pinkymishra293@gmail.com

* * *

                                   

 


No comments:

Post a Comment